वांछित मन्त्र चुनें

य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे । तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो॑ हवामहे ॥

अंग्रेज़ी लिप्यंतरण

ya āyuṁ kutsam atithigvam ardayo vāvṛdhāno dive-dive | taṁ tvā vayaṁ haryaśvaṁ śatakratuṁ vājayanto havāmahe ||

पद पाठ

यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे । तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥ ८.५३.२

ऋग्वेद » मण्डल:8» सूक्त:53» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:22» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2